अथ पञ्चदशोऽध्यायः
अथ पञ्चदशोऽध्यायः ॥
श्रीभगवानुवाच
ऊर्ध्वमूलमधःशाखम्, अश्वत्थम् प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि, यस्तम् वेद स वेदवित् ॥१॥
अधश्चोर्ध्वम् प्रसृतास्तस्य शाखा, गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि, कर्मानुबन्धीनि मनुष्यलोके ॥२॥
न रूपमस्येह तथोपलभ्यते, नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनम् सुविरूढमूलम्, असङ्गशस्त्रेण दृढेन छित्त्वा ||३||
ततः पदम् तत्परिमार्गितव्यम्, यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यम् पुरुषम् प्रपद्ये, यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥
निर्मानमोहा जितसङ्गदोषा, अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसज्ञैर,
गच्छन्त्यमूढाः पदमव्ययम् तत् ॥५॥
न तद्भासयते सूर्यो, न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते, तद्धाम परमम् मम ।।६।।
ममैवांशो जीवलोके, जीवभूतः सनातनः ।
मनः षष्ठानीन्द्रियाणि, प्रकृतिस्थानि कर्षति ॥७॥
शरीरम् यदवाप्नोति, यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति, वायुर्गन्धानिवाशयात् ।।८।।
श्रोत्रम् चक्षुः स्पर्शनम् च, रसनम् घ्राणमेव च ।
अधिष्ठाय मनश्चायम्, विषयानुपसेवते ॥९॥
उत्क्रामन्तम् स्थितम् वापि, भुञ्जानम् वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति, पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥
यतन्तो योगिनश्चैनम्, पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो, नैनम् पश्यन्त्यचेतसः ॥ ११ ॥
यदादित्यगतम् तेजो, जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ, तत्तेजो विद्धि मामकम् ॥१२॥
गामाविश्य च भूतानि, धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः, सोमो भूत्वा रसात्मकः ॥१३॥
अहम् वैश्वानरो भूत्वा, प्राणिनाम् देहमाश्रितः ।
प्राणापानसमायुक्तः, पचाम्यन्नम् चतुर्विधम् ॥१४॥
सर्वस्य चाहम् हृदि सन्निविष्टो, मत्तः स्मृतिर्ज्ञानमपोहनम् च ।
वेदैश्च सर्वैरहमेव वेद्यो, वेदान्तकृद्वेदविदेव चाहम् ||१५||
द्वाविमौ पुरुषौ लोके, क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते ।।१६।।
उत्तमः पुरुषस्त्वन्यः, परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य, बिभर्त्यव्यय ईश्वरः ॥ १७॥
यस्मात्क्षरमतीतोऽहम्, अक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च, प्रथितः पुरुषोत्तमः ॥ १८ ॥
यो मामेवमसम्मूढो, जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति माम्, सर्वभावेन भारत ॥ १९॥
इति गुह्यतमम् शास्त्रम्, इदमुक्तम् मयानघ
एतबुद्ध्वा बुद्धिमान्स्यात्, कृतकृत्यश्च भारत ॥२०॥ -:
इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ।। १५ ।। : -