द्वादश नामावली स्तोत्र
प्रथमतो महायोगी द्वितीयं प्रभुरीश्वरः ।
ज्ञानकंद तृतीयश्च, चतुर्थो प्रेमसागर ॥१॥
पञ्चमो ज्ञानविज्ञानो, षष्ठम सर्वमंगल ।
सप्तमो सर्वकर्ताश्च, अष्टमो देववल्लभः ||२||
नवमो अनंतशक्तिश्च दशमो आनंददायकः ।
एकादशी महातेजो द्वादशो करुणाकरः || ३ ||
एते द्वादश नामानि आत्रेयस्य महात्मनः ।
मन्त्रराजेति विख्यातं सर्व पापहरं परः ॥४॥
यक्षोपस्मार कुष्ठादि तापज्वर निवारणम् ।
राजद्वारे पथे घोरे संग्रामे च जलांतरे ॥५॥
गिरी गव्हरामारण्ये राज चोर भयादिषु ।
आवर्तन सहस्त्रेण लभन्ते वाञ्छितं फलम् ॥६॥ संपूर्णम्