अथ पंगुस्तोत्रम्
कदाचिदीशं करुणागुणाब्धिम् । चिदादिभिः सेवितपादपीठम् ।
सुसंगमेशालयतीर्थसंस्थम् । तुष्टीव विप्रः परमं परेशम् ॥१॥
त्वं देवदेवेश! जगन्निवास । प्रसीद विश्वेश्वर ! मे कृपालो !
भवभ्रमौ संभ्रमितान्तरं मां । संपाहि पंगुंजगतामधीश ॥२॥
नेत्रं ददास्यन्धतमः स्थितेभ्यः । श्रुतिं ददास्यन्यवचोऽश्रुतेभ्यः ।
ददासि वाग्दानमवाग्जनेभ्यो । ददास्यपद्भ्यश्च गतिं नरेभ्यः ||३||
ददासि चैतन्यमचेतनेभ्यो । बुद्धिच्युतेभ्यश्च ददासि बुद्धिम् ।|
यथा सुमार्गश्च कुमार्गगेभ्यो । देहि प्रभो ! मेऽपि तथैव सर्वम् ॥४॥
ददासि पक्षौ गतपक्षकेभ्यो । ददासि वीर्यं गत वीर्यकेभ्यः ।
ददासि सत्त्वं त्वमसत्वकेभ्यो । ददासि बोधं त्वमबोधकेभ्यः ॥५॥
ददासि सौख्यं परमं जगद्भ्यो । योगच्युतेभ्योऽपि च योगसिद्धिम् ।
अनन्यभाग्भ्यः स्वरतिप्रदो मे । प्रदेहि दास्यं परलाभरूपम् ॥६॥
श्रुत्वा सुकीर्तिं तव विश्वनाथ ! । विहाय सर्वं शरणागतोऽस्मि ।
अनन्तदानन्त ! सुखाभिराम । स्वपादसेवां दिश मे दयालो ॥७॥
न प्रार्थयेऽन्यजगदेकबन्धो ! । विहाय योगं तव सौख्यधाम ।
प्रयच्छ मे विश्वपते ! दयालो ! । सुखादिरूपं परमं हितं यत् ॥८॥
अनादिपंगुं बलरूपहीनम् । चतुर्विधां कर्मगतिं प्रपन्नम् ।
कार्येष्वशक्तं करणप्रहीनम् । मां पाहि सर्वज्ञपते ! दयालो ! ॥९॥
अधः स्थितं संसरणेन युक्तम् । अज्ञानभुत्वात् प्रविनष्टचित्तम् ।
त्वद्योगसंबन्धसुजातबोधम् । मां पाहि कारुण्यपतेऽतिदीनम् ॥१०॥
तुतोष तस्मै परयोगिराजः । परावरेशः परशर्मकर्त्ता ।।
अभीष्टलाभं व्यतरत्परेशः । श्रीनागदेवाय तदोचिताय ॥ ११ ॥
इति श्रीपरधर्मे महामोक्षैकसाधने श्रीनागार्जुनोपदेशे श्रीमन्महानुभावपण्डितवर्यकेशवराजमहात्मना सुविरचितं पंगुस्तोत्रं समाप्तम्