विंगुळीका स्तोत्र
श्री केशराजबास विरचित वृत्तम् : उपजाति
कदापि विंगुलिकय प्रदंष्ट । प्रतोदखेदं तमसह्यमाप । अपीशदृष्टेः पुरतः स्थितोऽपि । विज्ञाप्य तुष्टाव पतिं प्रणम्य त्वं सर्व जीवानमृतावलोकै- । र्विलोकयन्नार्तिमपाकरोषि । संसारदावानल दह्यमानान् । स्तत्कर्मधूमांकुलितान् अनन्तान् त्वं विश्वमेतद् विरचय्य शक्त्या । स्वयं चतास्मिश्चिततिमादधासि । नराकृतिर्ब्रह्म परापरज्ञो । विश्वाश्रयो विश्वविदां वरेण्यः त्वामात्तवेषं प्रभजन जनोऽयं । जित्त्वाजयं जीवजनस्य शक्तुम् । प्रयाति घोरं तिमिरं प्रतीर्य । स्वलाभमालंबितजीवधर्मम् त्वां वेदविद्यागमधर्मशास्त्र । र्विचारयंतो न विन्दति केऽपि ।स्वयं प्रमाणीतकृत सर्वविद्याः । तत्तद् विभिन्नार्थं तयाऽप्रमेयम त्वयि प्रमाणं न पराऽपि विद्या । स्वयंप्रमाणे निखिल प्रमाणे । यद्ब्रह्मविद्या विमलीकृतानां । स्वयंप्रकाशः स्वयमेव भासि त्वामान्यवेधैरविलक्षमाणं । मत्त्वान्यधर्मेरविबुद्धमीशम् । सरूपताभास विमोहितोऽयं । दीनो जनः संभजतेऽन्यदेवान् त्वद्रूपसाम्येन मर्तिनराणां । सुरेषु नस्याद् यदि नो भजेयुः । तदा फलायाभिभवेन् न विद्या । सर्वे त्वदारोपणधी कृतार्थ: त्वं सर्व विद्या भवभूमिरीशः । त्वं सर्व विद्याफलदान हेतुः । त्वं सर्व जीवान्तरचार्यनन्तः । तत्त्वं परात्मा जगदेकबंधुः जीवांस्त्वमीशेश मलांकृतांगान् । परेत तुल्यान् प्रविनष्टरूपान् । संजीवश्चारूकृपाकटाक्षैः । त्वं जीवजीवोऽसि दयानिकेत जीवोऽन्यनाथो निजकर्मबद्ध । सदासचेताः कृतबोधविर्यः । जहाति चान्यत्त्वमनाथमाद्यं । त्रासीश तस्मात्त्वमनाथबंधुः अवाङ्गमुखो जीवजनोपि सर्वः । नापश्यदूर्ध्वं विपरीतबोधः । तस्योपविष्टात् पतितः समीक्ष्य । स्वार्थं समृद्धर्तुमिहार्तबंधुः स्तुवन्नितीश जगदेक बंधुम् । समस्ततापापहरं कृपालुम् । विषप्रतोदं तमापास्य सर्व । द्विजः परानन्दमवाप तेन