श्रीदत्तात्रेय स्तोत्रं (अवधुतो महायोगिन् )
श्रीदत्तात्रेय स्तोत्रं (अवधुतो महायोगिन् )
अथ श्री दत्तात्रेय स्तोत्रम्
अवधूत! महायोगिन्, पूर्णब्रह्म ! परात्पर ।
सर्वज्ञ ! ज्ञानदातश्च दर्शनं देहि मे प्रभो ॥१॥
धर्त श्चित्पूतदेहस्य, द्रष्टः परावरस्य च।
पुत्र प्रस्वनसूयायाः, दर्शनं देहि मे प्रभो ॥२॥
चतुर्भुज ! तनुश्रेष्ठ भस्ममण्डितविग्रह ।
ब्रह्मचारिन् सदा देव, दर्शनं देहि मे प्रभो ॥३॥
सुखद ! दुःखहर्ताश्च, रक्तवर्ण ! दिगम्बर ।
महोत्पलाक्ष! वै दण्डिन् दर्शनं देहि मे प्रभो ॥४॥
अच्छानन! दयासिन्धो जीवकलुषनाशक ।
जगदगुरो ! जगद्भर्तः, दर्शनं देहि मे प्रभो ॥५॥
कुण्डीपाणे! गदाहस्त, कम्बुकण्ठ ! सुभद्रद ।
धृतचक्र ! सदा गेय, दर्शनं देहि सम्प्रति ॥ ६ ॥
स्नानं प्रतिदिनं काश्यां, भिक्षा च मध्यकालिका ।
जम्बुकाख्यपुरे कर्तः, दर्शनं देहि मे प्रभो ॥७॥
भोजनायात्मतीर्थ वै, सह्याद्रिं शयनाय च ।
गन्त ! ऋषिकुलोत्पन्न, दर्शनं देहि मे प्रभो ॥८॥
अरलकस्य भूपस्य, त्रितापाद्रक्षक प्रभो ।
उक्त्वा शमिति शब्दो हि, दर्शनं देहि मे प्रभो ॥९॥
भूपाय कार्तवीर्याय, सहस्रबाहुदायक ।
हे दत्तात्रेय ! वन्दे त्वां दर्शनं देहि मे प्रभो ॥१०॥
यथान्येषां मनीषाश्च, पिपर्तु मेऽपि वै तथा ।
इदमेव नु याचेऽहं देहि च दर्शनं प्रभो ॥११॥
श्रीधरानन्द - शास्त्रि - पातुरकर -प्रणीतम्