अथ नामावलीस्तोत्रम्
अथ नामावलीस्तोत्रम् वेधाचार्याय कृष्णाय, नागराय नमो नमः ।
नमः श्रीसुरवेधाय नमः श्रीचक्रवर्तिने ॥१॥
श्रीदत्ताय नमस्तुभ्यम् आत्रेयाय नमो नमः
कृपाकृतावताराय, नमस्तेऽमोघकर्मणे ॥२॥
नमोऽवधूतवेशाय, शक्तिद्वयधराय च ।
नमो वरविहाराय नमः श्रीचक्रपाणये || ३ ||
नमो नमः श्रीप्रभवे, स्वात्मारामाय ते नमः ।
वस्तुने नित्यमुक्ताय, निर्गुणब्रह्मणे नमः || ४ ||
गोविन्दाय नमस्तुभ्यम्, जीवमोक्षाय ते नमः ।
नमो विभूतियुक्ताय, नमस्ते परदर्शिने ॥५॥
नमस्ते मुनिदेवाय, परदेवाय ते नमः ।
नमः क्लेशौघसहंर्त्रे, परानन्दाय ते नमः ||६||
वेधाचार्याय नमस्तुभ्यम्, नमस्ते गुरवे प्रभो ! ।
चक्रपाणे नमस्तेऽस्तु, पराय परदर्शिने ॥७॥
परमाय परेशाय, नमस्ते परशम्भवे ।
गुरवे सर्वजीवानाम्, अनन्ताय नमो नमः ||८||
इदं नामावलीस्तोत्रं यः स्मरेदार्तिपूर्वकम् ।
मुक्तः संसारबन्धेभ्यः, स याति परमां गतिम् ॥९॥
इति श्रीपरधर्मे महामोक्षैकसाधने श्रीनागार्जुनोपदेशे श्रीन्महानुभावपण्डितवर्य
श्रीदामोदरमहात्मना विरचितं नामवलीस्तोत्रं समाप्तम्