श्रीचक्रधर स्तोत्रम्
श्रीसच्चिदानंदमयं स्वरुपम् । मुख्यादिनामाङ्कितशक्तियुक्तम् ।
षड्लक्षणं श्रीपरमेश्वराख्यम् । तं चित्परं चक्रधरं स्मरामि ॥१॥
श्रीमन्महावाक्यनिगूढतत्वम् । ज्ञात्वा परानन्दमयस्वरुपम् ।
आनंदरूपं परमेश्वरस्य । तं चित्परं चक्रधरं स्मरामि ॥२॥
यो देवताः सर्वगुणाश्च धर्मा । ज्ञानं च विज्ञानमथैव सर्वम् ।
सामर्थ्यमस्याखिलशक्तियुक्तम् । तं चित्परं चक्रधरं स्मरामि ||३||
जीवाय कैवल्यपदं ददाति । श्रीजीवकैवल्यमिति स्तुवन्ति ।
व्यक्तेऽप्यव्यक्ते धृतशक्तिचक्रम् । तं चित्परं चक्रधरं स्मरामि ॥४॥
मुख्यादिसंज्ञं त्ववतारसंज्ञं । वस्तूपसंज्ञोभयदर्शिसंज्ञम् ।
चक्राख्यमानन्दमयेश्वरं च । तं चित्परं चक्रधरं स्मरामि ॥५॥
धर्मादिसंज्ञास्त्रिविधापरस्था । माया चिदन्या पुरतः पुरस्तात् ।
यस्येति शक्त्याश्च परावराख्या । तं चित्परं चक्रधरं स्मरामि ||६||
आमुख्यशक्तेः पुरमाविदेहात् । यः शुद्धचैतन्यमयं दधाति ।
मायापुरंधारणमेव नित्यम् । तं चित्परं चक्रधरं स्मरामि ॥७॥
इत्थं पुरा सम्प्रति कर्मभूमौ । दत्वा प्रबोधं कृपयावतीर्य्य ।
तान्नित्यबोधान् स्वयमुद्दधार । तं चित्परं चक्रधरं स्मरामि ॥८॥
यस्य प्रवृत्याः प्रवृत्तिः पराख्या । स्थित्युद्भवान्तादि करोति कर्म ।
आज्ञाधरा यस्य चिदादयश्च । तं चित्परं चक्रधरं स्मरामि ॥९॥
एकोऽपि देवः स च पंचधाभूत् । उद्धर्तुमार्तान्नपि कर्मभूमौ ॥
क्रीडत्यसावेवयुगाऽनुरूपम् । तं चित्परं चक्रधरं स्मरामि ॥ १० ॥
यस्यैव नामस्मरणेन पुंसा । भवन्ति वेधादिदशप्रकाराः ॥
नश्यन्ति कर्माणि महाभयानि । तं चित्परं चक्रधरं स्मरामि ॥११॥
केचिद्विशेषं मुनयो वदन्ति । तत्सर्वमुक्तं च तदीयमूर्ती ।
सन्तीह सर्वाणि च साधनानि । तं चित्परं चक्रधरं स्मरामि ॥१२॥
न यन्मूर्तिवस्तुस्मरणेन सर्वे । स्मृत्युद्भवश्चक्रधरेति नाम्ना ।
प्राप्तः सुसिद्धिं तमनुप्रयान्तः । तं चित्परं चक्रधरं स्मरामि ||१३||
ज्ञानैश्चतुर्भिर्मलकर्मजाल मनाद्यविद्यां कृपया च छित्त्वा ।
ददाति कैवल्यमनुस्मृतानां । तं चित्परं चक्रधरं स्मरामि ॥ १४ ॥
उद्धारको रक्षक एव जीवान् । निर्देशतच्चक्रधरेति नाम्ना ।
अन्तेतु मामुद्धर रक्ष चक्रिन् ! । त्वां नामिनं नामयुतं स्मरामि ॥ १५ ॥
श्रीपारमाण्डल्यशिवात्मजेन ।गोविन्दसंज्ञेन मुनीश्वरेण ।
स्तोत्रं कृतं चक्रधरेति नाम्ना ।स्मृत्वा प्रमाणानि महादिवाक्यम् ॥१६॥
नामस्तोत्रमहापुण्यं । यः पठेत्प्रातरुत्थितः ।
सर्वबन्धैर्विनिर्मुक्तः । परं कैवल्यमाप्नुयात् ॥ १७॥
इति श्रीपरधर्मे महामोक्षैकसाधने श्रीनागार्जुनोपदेशे श्रीमन्महानुभावपण्डितवर्य पारमाण्डल्याम्नायदीक्षित गोविंदराजमहात्मना विरचितं श्रीचक्रधरनामस्तोत्रं समाप्तम्